|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.10. अध्यायः 010
Mahabharata - Drona Parva - Chapter Topics
द्रोणमरणश्रवणेन मूर्छितस्य धृतराष्ट्रस्य पिरचारिकाभिर्जलसेचनादिना समुद्बोधनम्॥ 1 ॥ धृतराष्ट्रेण सञ्जयम्प्रति युद्धकथनचोदना॥ 2 ॥

Mahabharata - Drona Parva - Chapter Text
वैशम्पायन उवाच। 7-10-0x(4282)(44971)
एवं पृष्ट्वा सूतपुत्रं हृच्छोकेनार्दितो भृशम्।
जये निराशः पुत्राणां धृतराष्ट्रोऽपतत्क्षितौ॥ 7-10-1(44972)
तं विसंज्ञं निपतिन्त सिषिचुः परिचारिकाः।
जलेनात्यर्थशीतेन जीवन्त्यः पुण्यगन्धिना॥ 7-10-2(44973)
पतितं चैनमालोक्य समस्ता भरतस्त्रियः।
परिवव्रुर्महाराजमस्पृशंश्चैव पाणिभिः॥ 7-10-3(44974)
उत्थाप्य चैनं शनकै राजानं पृथिवीतलात्।
आसनं प्रापयामासुर्बाष्पकण्ठ्यो वराननाः॥ 7-10-4(44975)
आसनं प्राप्य राजा तु मूर्च्छयाऽभिपरिप्लुतः।
निश्चेष्टोऽतिष्ठत तदा वीज्यमानः समन्ततः॥ 7-10-5(44976)
स लब्ध्वा शनकैः संज्ञां वेपमानो महीपतिः।
पुनर्गावल्गणिं सूतं पर्यपृच्छद्यथातथम्॥ 7-10-6(44977)
धृतराष्ट्र उवाच। 7-10-7x(4283)
यः स उद्यन्निवादित्यो ज्योतिषा प्रणुदंस्तमः।
अजातशत्रुमायान्तं कस्तं द्रोणादवारयत्॥ 7-10-7(44978)
प्रभिन्नमिव मातङ्गं यथा क्रुद्धं तरस्विनम्।
प्रसन्नवदनं दृष्ट्वा प्रतिद्विरदगामिनम्॥ 7-10-8(44979)
वासितासङ्गमे यद्वदजय्यं प्रतियूथपैः।
निजघान रणे वीरान्वीरः पुरुषसत्तमः॥ 7-10-9(44980)
यो ह्येको हि महावीर्यो निर्दहेद्धोरचक्षुषा।
कृत्स्नं दुर्योधनबलं धृतिमान्सत्यसङ्गरः॥ 7-10-10(44981)
चक्षुर्हणं जये सक्तमिष्वासधरमच्युतम्।
दान्तं बहुमतं लोके के शूराः पर्यवारयन्॥ 7-10-11(44982)
के दुष्प्रधर्षं राजानमिष्वासधरमच्युतम्।
समासेदुर्नरव्याघ्रं कौन्तेयं तत्र मामकाः॥ 7-10-12(44983)
तरसैवाभिपद्याथ यो वै द्रोणमुपाद्रवत्।
यः करोति महत्कर्म शत्रूणां वै महाबलः॥ 7-10-13(44984)
महाकायो महोत्साहो नागायुतसमो बले।
तं भीमसेनमायान्तं के शूराः पर्यवारयन्॥ 7-10-14(44985)
यदायाज्जलदप्रख्यो रथः परमवीर्यवान्।
पर्जन्य इव बीभत्सुस्तुमुलामशनीं सृजन्॥ 7-10-15(44986)
विसृजञ्छरजालानि वर्षाणि मघवानिव।
अवस्फूर्जन्दिशः सर्वास्तलनेमिस्वनेन च॥ 7-10-16(44987)
चापविद्युत्प्रभो घोरो रथगुल्मवलाहकः।
सनेमिघोषस्तनितः शरशब्दातिबन्धुरः॥ 7-10-17(44988)
रोषनिर्जितजीमूतो मनोभिप्रायशीघ्रगः।
मर्मातिगो बाणधरस्तुमुलः शोणितोदकैः॥ 7-10-18(44989)
सम्प्लावयन्दिशः सर्वा मानवैरास्तरन्महीम्।
भीमनिःस्वनितो रौद्रो दुर्योधनपुरोगमान्॥ 7-10-19(44990)
युद्धेऽभ्यषिञ्चद्विजयो गार्ध्रपत्रैः शिलाशितैः।
गाण्डीवं धारयन्धीमान्कीदृशं वो मनस्तदा॥ 7-10-20(44991)
इषुसम्बाधमाकाशं कुर्वन्कपिवरध्वजः।
यदायात्कथमासीत्तु तदा पार्थं समीक्षताम्॥ 7-10-21(44992)
कच्चिद्गाण्डीवशब्देन न प्रणश्यति वै बलम्।
यद्वः सभैरवं कुर्वन्नर्जुनो भृशमन्वयात्॥ 7-10-22(44993)
कच्चिन्नापानुदत्प्रामानिषुभिर्वो धनञ्जयः।
वातो वेगादिवाविध्यन्मेघाञ्शरगणैर्नृपान्॥ 7-10-23(44994)
को हि गाण्डीवधन्वानं रणे सोढुं नरोऽर्हति।
यमुषश्चुत्य सेनाग्रे जनः सर्वो विदीर्यते॥ 7-10-24(44995)
यत्सेनाः समकम्पन्त यद्वीरानस्पृशद्भयम्।
के तत्र नाजहुर्द्रोणं के क्षुद्राः प्राद्रवन्भयात्॥ 7-10-25(44996)
के वा तत्र तनूस्त्यक्त्वा प्रतीपं मृत्युमाव्रजन्।
अमानुषाणां जेतारं युद्धेष्वपि धनञ्जयम्॥ 7-10-26(44997)
न च वेगं सिताश्वस्य विसहिष्यन्ति मामकाः।
गाण्डीवस्य च निर्घोषं प्रावृड्जलदनिःस्वनम्॥ 7-10-27(44998)
विष्वक्सेनो यस्य यन्ता यस्य योद्धा धनञ्चयः।
अशक्यः स रथो जेतुं मन्ये देवासुरैरपि॥ 7-10-28(44999)
सुकुमारो युवा शूरो दर्शनीयश्च पाण्डवः।
मेधावी निपुणो धीमान्युधि सत्यपराक्रमः॥ 7-10-29(45000)
आरावं विपुलं कुर्वन्व्यथयन्सर्वसैनिकान्।
यदायान्नकुलो द्रोणं के शूराः पर्यवारयन्॥ 7-10-30(45001)
आशीविष इव क्रुद्धः सहदेवो यदाऽभ्ययात्।
कदनं करिष्यञ्शत्रूणां तेजसा दुर्जयो युधि॥ 7-10-31(45002)
आर्यव्रतममोघेषुं हीमन्तमपराजितम्।
सहदेवं तमायान्तं के शूराः पर्यवारयन्॥ 7-10-32(45003)
यस्तु सौवीरराजस्य प्रमथ्य महतीं चमूम्।
आदत्त महिषीं भोजां काम्यां सर्वाङ्गशोभनाम्॥ 7-10-33(45004)
सत्यं धृतिश्च शौर्यं च ब्रह्मचर्यं च केवलम्।
सर्वाणि युयुधानेऽस्मिन्नित्यानि पुरुषर्षभे॥ 7-10-34(45005)
बलिनं सत्यकर्माणमदीनमपराजितम्।
वासुदेवसमं युद्धे वासुदेवादनन्तरम्॥ 7-10-35(45006)
धनञ्जयोपदेशेन श्रेष्ठमिष्वस्त्रकर्मणि।
पार्थेन सममस्त्रेषु कस्तं द्रोणादवारयत्॥ 7-10-36(45007)
वृष्णीनां प्रवरं वीरं शूरं सर्वधनुष्मताम्।
रामेण सममस्त्रेषु यशसा विक्रमेण च॥ 7-10-37(45008)
सत्यं धृतिर्मतिः शौर्यं ब्राह्मं चास्त्रमनुत्तमम्।
सात्वते तानि सर्वाणि त्रैलोक्यमिव केशवे॥ 7-10-38(45009)
तमेवङ्गुणसम्पन्नं दुर्वारमपि दैवतैः।
समासाद्य महेष्वासं के शूराः पर्यवारयन्॥ 7-10-39(45010)
पाञ्चालेषूत्तमं वीरमुत्तमाभिजनप्रियम्।
नित्यमुत्तमकर्माणमुत्तमौजसमाहवे॥ 7-10-40(45011)
युक्तं धनञ्जयहिते ममानर्थार्थमुत्थितम्।
यमवैश्रवणादित्यमहेन्द्रवरुणोपमम्॥ 7-10-41(45012)
महारथं समाख्यातं द्रोणायोद्यतमाहवे।
त्यजन्तं तुमुले प्राणान्के शूराः समवारयन्॥ 7-10-42(45013)
एकोपसृत्य चेदिभ्यः पाण्डवान्यः समाश्रितः।
धृष्टकेतुं समायान्तं द्रोणं कस्तं न्यवारयत्॥ 7-10-43(45014)
योऽवधीत्केतुमान्वीरो राजपुत्रं दुरासदम्।
अपरान्तगिरिद्वारे द्रोणात्कस्तं न्यवारयत्॥ 7-10-44(45015)
स्त्रीम्पुसयोर्नरव्याघ्रो यः स वेद गुणागुणान्।
शिखण्डिनं याज्ञसेनिमम्लानमनसं युधि॥ 7-10-45(45016)
देवव्रतस्य समरे हेतुं मृत्योर्महात्मनः।
द्रोणायाभिमुखं यान्तं के शूराः पर्यवारयन्॥ 7-10-46(45017)
यस्मिन्नभ्यधिका वीरे गुणाः सर्वे धनञ्जयात्।
यस्मिन्नस्त्राणि सत्यं च ब्रह्मचर्यं च सर्वदा॥ 7-10-47(45018)
वासुदेवसमं वीर्ये धनञ्जयसमं बले।
तेजसाऽऽदित्यसदृशं बृहस्पतिसमं मतौ॥ 7-10-48(45019)
अभिमन्युं महात्मानं व्यात्ताननमिवान्तकम्।
द्रोणायाभिमुखं यान्तं के शूराः समवारयन्॥ 7-10-49(45020)
तरुणस्तरुणप्रज्ञः सौभद्रः परवीरहा।
यदाभ्यधावद्वै द्रोणं तदाऽऽसीद्वो मनः कथं॥ 7-10-50(45021)
द्रौपदेया नरव्याघ्राः समुद्रमिव सिन्धवः।
यद्रोणमाद्रवन्सङ्ख्ये के शूरास्तान्न्यवारयन्॥ 7-10-51(45022)
एते द्वादश वर्षाणि क्रीडामुत्सृज्य बालकाः।
अस्त्रार्थमवसन्भीष्मे बिभ्रतो व्रतमुत्तमम्॥ 7-10-52(45023)
क्षत्रञ्जयः क्षत्रदेवः क्षत्रवर्मा च मानदः।
धृष्टद्युम्नात्मजा वीराः के तान्द्रोणादवारयन्॥ 7-10-53(45024)
शताद्विशिष्टं यं युद्धे सममन्यन्त वृष्णयः।
चेकितानं महेष्वासं कस्तं द्रोणादवारयत्॥ 7-10-54(45025)
वार्धक्षेमिः कलिङ्गानां यः कन्यामाहरद्युधि।
अनाधृष्टिरदीनात्मा कस्तं द्रोणादवारयत्॥ 7-10-55(45026)
भ्रातरः पञ्च कैकेया धार्मिकाः सत्यविक्रमाः।
इन्द्रगोपकसङ्काशा रक्तवर्मायुधध्वजाः॥ 7-10-56(45027)
मातृष्वसुः सुता वीराः पाण्डवानां जयार्थिनः।
तान्द्रोणं हन्तुमायातान्के वीराः पर्यवारयन्॥ 7-10-57(45028)
यं योधयन्तो राजानो नाजयन्वारणावते।
षण्मासानपि संरब्धा जिघांसन्तो युधां पतिं॥ 7-10-58(45029)
धनुष्मतां वरं शूरं सत्यसन्धं महाबलम्।
द्रोणात्कस्तं नरव्याघ्रं युयुत्सुं पर्यवारयत्॥ 7-10-59(45030)
यः पुत्रं काशिराजस्य वाराणस्यां महारथम्।
समरे स्त्रीषु गृध्यन्तं भल्लेनापाहरद्रथात्॥ 7-10-60(45031)
धृष्टद्युम्नं महेष्वासं पार्थानां मन्त्रधारिणम्।
युक्तं दुर्योधनानर्थे सृष्टं द्रोणवधाय च॥ 7-10-61(45032)
निर्दहन्तं रणे योधान्दारयन्तं च सर्वतः।
द्रोणाभिमुखमायान्तं के शूराः पर्यवारयन्॥ 7-10-62(45033)
उत्सङ्ग इव सम्वृद्धं द्रुपदस्यास्त्रवित्तमम्।
शैखण्डिनं शस्त्रगुप्तं के द्रोणादवारयन्॥ 7-10-63(45034)
य इमां पृथिवीं कृत्स्नां चर्मवत्समवेष्टयत्।
महता रथघोषेण मुख्यारिघ्नो महारथः॥ 7-10-64(45035)
दशाश्वमेधानाजहे स्वन्नपानाप्तदक्षिणान्।
निरर्गलान्सर्वमेधान्पुत्रवत्पालयन्प्रजाः॥ 7-10-65(45036)
विसृष्टा दक्षिणा यस्य गङ्गाजलमवारयत्।
गङ्गास्रोतसि यावत्यः सिकता अप्यशेषतः।
तावतीर्गा ददौ वीर उशीनरसुतोऽध्वरे॥ 7-10-66(45037)
न पूर्वे नापरे चक्रुरिदं केचन मानवाः।
इतीदं चुक्रुशुर्देवाः कृते कर्मणि दुष्करे॥ 7-10-67(45038)
पश्यामस्त्रिषु लोकेषु न तं संस्थास्नुचारिषु।
जातं चापि जनिष्यन्तं द्वितीयं चापि साम्प्रतम्॥ 7-10-68(45039)
अन्यमौशीनराच्छेब्याद्धुरो वोढारमित्युत।
गतिं यस्य न यास्यन्ति मानुषा लोकवासिनः॥ 7-10-69(45040)
तस्य नप्तारमायान्तं शैब्यं कः समवारयत्।
द्रोणायाभिमुखं यत्तं व्यात्ताननमिवान्तकम्॥ 7-10-70(45041)
विराटस्य रथानीकं मत्स्यस्यामित्रघातिनः।
प्रेप्सन्तं समरे द्रोणं के वीराः पर्यवारयन्॥ 7-10-71(45042)
सद्यो वृकोदराज्जातो महाबलपराक्रमः।
मायावी राक्षसो वीरो यस्मान्मम महद्भयम्॥ 7-10-72(45043)
पार्थानां जयकामं तं तं पुत्राणां मम कण्टकम्।
घटोत्कचं महात्मानं कस्तं द्रोणादवारयत्॥ 7-10-73(45044)
एते चान्ये च बहवो येषामजितं युधि।
त्यक्तारः संयुगे प्राणान्किं तेषामजितं युधि॥ 7-10-74(45045)
येषां च पुरुषव्याघ्रः शार्ङ्गधन्वा व्यपाश्रयः॥
लोकानां गुरुरत्यर्थं लोकनाथः सनातनः। 7-10-75(45046)
नारायणोरणे नाथो दिव्यो दिव्यात्मकः प्रभुः॥
यस्य दिव्यानि कर्माणि प्रवदन्ति मनीषिणः। 7-10-76(45047)
तान्यहं कीर्तयिष्यामि भक्त्या स्थैर्यार्थमात्मनः॥ ॥ 7-10-77(45048)
इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणाभिषेकपर्वणि दशमोऽध्यायः॥ 10 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-10-8 सः प्रसिद्धः। तमजातशत्रुम् आयान्तं दृष्ट्वा द्रोणात्कः अवारयदित्यन्वयः॥ 5-10-15 यदा अयात् यदा च दुर्योधनपुरोगमान्गार्ध्रपत्रैरभ्यषिञ्चत्तदा वो मनः क्रीदृशमभूदिति षष्ठेनान्वयः॥ 5-10-34 युयुधाने सात्यकौ॥ 5-10-38 सात्वते सात्यकौ॥ 5-10-68 स्थास्रुचारिषु स्थावरजङ्गमात्मकेषु। स्नमित्यस्य व्यवहितेन पश्याम इत्यनेन सम्बन्धः॥ 5-10-10 दशमोऽध्यायः॥ 10 ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|